महर्षिपतञ्जलिप्रणीतं - योगदर्शनम्: पतञ्जलि योगसूत्र भाष्य संस्कृत

पूज्य स्वामीजीद्वारा श्रीमद्भगवद्गीताया भाष्यं यथार्थगीताया विश्वजनमानसे समादरभावनां समवलोक्य भक्तासाधकाश्च निवेदनं कृतवन्त:, यत् पातञ्जलयोगदर्शन विषयेऽपि पूज्य श्रीस्वामिन: प्रकाशं कत्र्तुं कृपां कुर्वन्तु। यतो हि योग: योगिप्रवरानुभूतिगम्योऽस्ति, मात्र भौतिकस्तरेण हृदयङ्गमं कत्र्तुमशक्य:। पूज्यचरणा: सन्ति महापुरुषा: योग पथानुभवप्रौढा:। भक्तानामाग्रहोपरि श्रीपूज्यमहाराजा: कृपां कृत्वा यत् प्रवचनं दत्तवन्त: प्रस्तुतकृतिस्तस्य संकलनमस्ति।

योगदर्शनस्य प्रस्तुतानया टीकया किमस्ति योग? एतन्तु बोधे समागन्तुं शक्नोति, किन्तु योगस्य स्थितय: साधनायां प्रवृत्यन्तरमेव बुद्धिपथायिता: भवन्ति। तपसा, स्वाध्यायेन-ईश्वरप्रणिधानेन, ओम् इत्यस्य जपेन च स्थितय: प्रारम्भा: भवन्ति, यदारम्भेनाविद्यादिक्लेशेषु क्षीणेषु द्रष्टा, आत्मा जागृतो भूत्वा श्रेयस्करं दृश्यं प्रसारयितुमारभते। तदालोके चलित्वा ज्ञातुं शक्यते, यत् महर्षिपतञ्जलेर्योगसूत्राणामभिप्राय: किमस्ति? योग: प्रत्यक्षं दर्शनमस्ति, इदं लेखेन प्रवचनेन च न भवति बोधगम्यम्। क्रियात्मकविधिनाऽग्रेसरो भूत्वा साधक: सम्यग्जानाति यत् यत्किञ्चित्महर्षि: लिलेख, तस्य वास्तविक: किमस्त्याशय:?